Wednesday, July 15, 2026

उत्तर पूजन
ॐ आवाहित देवताभ्यो नमः।
 उत्तर पूजां गृहणन्तु प्रीयन्ताम् ।
विसर्जन
ॐ यान्तु देव गणः सर्वे, पूजामादाय मामकीम ।
 इष्ट-काम-समृद्धवर्थ, पुनरागमनाय च ॥
ॐ गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर।
 यत्र ब्रम्हादयो देवाः तत्र गच्छ हुताशन ।।
प्रार्थना
प्रमादात् कुर्वतां कर्म प्रच्यवेता ध्वरेषु यत् । 
स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥
यस्य स्मृत्या च नामोक्त्या तपो यज्ञ क्रियादिषु।
 न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
आशिर्वाद
श्री र्वर्चस्व मायुष्य मारोग्यं गावधात् पवमानं महीयते। 
धन धान्यं पशं पशु वहुपुत्र लाभं शतसंवत्सरे दीर्घमायु ।
ॐ सफला सन्तु पूर्णा : सन्तु मनोरथा: ।
 शत्रूणां बुद्धि नाशोस्तु मित्राणां मुदयस्तव ॥
अभिषेक मन्त्र
अभिषेक के समय यज्ञकर्ता की पत्नी वाम भाग में रहे तथा पुत्र पौत्रादि भी निकट रहें।
आचार्य कलश के जल से आग्न पल्लव द्वारा निम्न लिखित मन्त्रो से अभिषेक करें।
गणाधिपो भानु-शशी-धरासुतो बुधो गुरुर्भार्गवसूर्वनन्दनाः । राहुच केतुश्च परं नवग्रहाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ १॥

उपेन्द्र इन्द्रो वरुणो हुताशनत्रिविक्रमो भानुसखञ्चतुर्भुजः । गन्धर्व-यक्षोरग-सिद्ध-चारणाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ २॥

नलो दधीचिः सगरः पुरूरवा शाकुन्तलेयो भरतो धनञ्जयः । रामत्रयं वैन्यबली युधिष्ठिरः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ३॥

मनु-मंरीचि-भृंगु-दक्ष-नारदाः पाराशरो व्यास-वसिष्ठ-भार्गवाः । वाल्मीकि कुम्भोद्भव गर्ग-गौतमाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ४॥
रम्भाशची सत्यवती च देवकी गौरी च लक्ष्मीच दितिश्च रुक्मिणी । कूर्मा गजेन्द्रः सचराऽचरा धरा कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ५॥

गड्ङ्गा च क्षिप्रा यमुना सरस्वती गोदावरी नेत्रवती च नर्मदा। सा चन्द्रभागा वरुणा त्वसी नदी कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ६॥

तुड्ग-प्रभासो गुरुचक्रपुष्करं गया विमुक्ता बदरी वटेश्वरः । केदार-पम्पासरसञ्च नैमिषं कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ७॥

शङ्खच दूर्वासित-पत्र-चामरं मणि प्रदीपो वररत्नकाञ्चनम् । सम्पूर्णकुम्भः सुहतो हुताशनः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ८॥

प्रयाणकाले यदि वा सुमड्ङ्गले प्रभातकाले च नृपाभिषेचने । धर्मार्थकामाय जयाय भाषित व्यासेन कुर्यात्तु मनोरथं हि तत् ॥ ९॥
ॐ सुशान्तिर्भवतु । 
शान्तिः पुष्टिस्तुष्टिश्चास्तु ।
 अमृताभिषेकोऽस्तु ॥
।।इति।।  नव गृह वास्तु पूजा  सम्पूर्णम 

No comments:

Post a Comment