Wednesday, August 12, 2026

 शनिस्तोत्रम् 

ॐ शनैश्चरः स्वधाकारी छायाभूः सूर्यनन्दनः ।

मार्तण्डजो यमः सौरिः पङ्गूश्च ग्रहनायकः ॥ १॥

ब्रह्मण्योऽक्रूरधर्मज्ञो नीलवर्णोऽञ्जनद्युतिः ।

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ २॥

तस्य पीडां नचैवाहं करिष्यामि न संशयः ।

गोचरे जन्मलग्ने च वापस्वन्तर्दशासु च ॥ ३॥

इति शनैश्चरस्तोत्रम् ।