श्री रुद्री पाठ: शिव उपासना

१. शिव पूजन विधि
यहाँ शिव पूजन की विधि (संकल्प, न्यास, अभिषेक) का विवरण लिखें...
२. प्रथम अध्याय (रुद्री)

अथ प्रथमोऽध्यायः

हरिः ओम् गणानां त्वा गणपति र्ट हवामहे 

प्रियाणां त्वा प्रिय पति र्ट हवामहे 

निधीनां त्वा निधिपति र्ट हवामहे वसोमम। 

आहमजानि गर्भधमात्वमजासि गर्भधम् ॥१ ॥

गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङक्त्या सह ।

 बृहत्युष्णिहा ककुप्सूचीभिः शम्यन्तु त्त्वा ॥२॥

द्विपदायाश्चतुष्पदास्त्रिपदायाश्चषट्पदाः ।

विच्छन्दायाश्च सच्छन्दाः सूचीभिः शॅम्यन्तु त्वा ॥ ३ ॥

सहस्तोमाः सहच्छन्दस ऽआवृतः सह प्रमा ऋषयः सप्त दैव्याः 

पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥४॥

यज्जाग्रतो दूरमुदैतिदैवं तदुसुप्तस्य तथैवैति । 

दुरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिव - संकल्पमस्तु ॥५ ॥

येन कर्माण्यपसो मनीषिणो यज्ञेकृण्वन्ति विदथेषुधीराः ।

यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिव संकल्पमस्तु ॥६ ॥

यत्प्रज्ञानमुतचेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।

यस्मान्नऋते किंचनकर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु ॥७॥

येनेदं भूतं भुवनं भविष्यत्परिगृहीतमऽ मृतेनसर्वम् ।

येन यज्ञस्तायते सप्तहोता तन्मे मनः शिव संकल्पमस्तु ॥८ ॥

यस्मिन्नृचः सामयजू  यस्मिन्प्रतिष्ठिता रथना भाविवाराः

यस्मिंश्चित्तठं सर्वमोतं प्रजानां तन्मे मनः शिव संकल्पमस्तु ॥९ ॥

सुषारथिरश्वानित्वयन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिनइव ।

हृत्प्रतिष्ठंयदजिरं जविष्ठं तन्मे मनः शिव संकल्पमस्तु ॥१०॥


३. द्वितीय अध्याय

 अथ द्वितीयोऽध्यायः

हरिः ओम् सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।

स भूमि ठं सर्वतः स्पृत्वाऽत्यतिष्ठद्दशांगुलम् ॥१॥

पुरुष ऽएवेद ठं सर्वं यद्भूतं यच्च भाव्यम् ।

उता मृतत्वस्येशानो यदन्नेनाति रोहति ॥२ ॥

एतावानस्य महिमातोज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ॥३॥

त्रिपादूर्द्ध उदैत्पुरुषः पादोस्येहाभवत्पुनः 

ततो विष्व‌ङ्ग्यक्रामत्साशनानशनेऽअभि ॥४॥

ततो व्विराडजायत व्विराजोऽअधि पूरुषः । 

सजातोऽअत्यरिच्यत पश्चाद्भूमिमथोपुरः ॥५॥

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । 

पशूस्ताँश्चक्रेवायव्यानारण्या ग्राम्याश्चये ॥६॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।

छन्दा सिजज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥

तस्मादश्वा ऽअजायन्त ये के चोभयादतः । 

गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः ॥८ ॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । 

तेन देवाऽअयजन्तसाध्याऽऋषयश्चये ॥९ ॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 

मुखं किमस्यासीत्किम्बाहू किमूरू पादा उच्येते ॥१०॥

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।

 ऊरू तदस्य यवैश्यः पभ्या शूद्रोऽअजायत ॥११॥

चन्द्रमा मनसोजातश्चक्षोः सूर्यो ऽअजायत । 

श्रोत्राद्वायुश्च प्राणश्च मुखादग्नि रजायत ॥ १२ ॥

नाभ्या आसीदन्तरिक्ष ठं शीर्णोद्यौः समवर्त्तत। 

पभ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ -अकल्पयन् ॥१३॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तो स्यासीदाज्यं ग्रीष्मऽइध्मः शरद्धविः ॥१४॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । 

देवायद्यज्ञं तन्वानाऽअबध्नन् पुरुषम् पशुम् ॥१५ ॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । 

तेह नाकं महिमानः सचन्त यत्र पूर्वेसाध्याः सन्तिदेवाः ॥१६ ॥

अभ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्त्तताग्रे । 

तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥१७॥

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । 

तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेयनाय ॥१८॥

प्रजापतिश्चरति गर्भेऽअन्तरजायमानो बहुधा विजायते । 

तस्ययोनिं परिपश्यन्ति धीरास्तस्मिन्ह तस्त्थुर्भुवनानि विश्वा ॥१९॥

योदेवेभ्यऽआतपतियो देवानां पुरोहितः ।

पूर्वी यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥२०॥ 

रुचं ब्राह्यं जनयन्तो देवाऽअग्रेतदब्रुवन् । 

यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवाऽअसन्वशे ॥२१॥

श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पाश्र्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । 

इष्णन्निषाणामुंमऽइषाण सर्वलोकंमऽइषाण ॥२२॥



४. तृतीय अध्याय

 अथ तृतीयोऽध्यायः

हरिः ॐ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।

सङ्क्रन्दनो निमिषऽ एक वीरः शत र्ट सेनाअजयत्साकमिन्द्रः ॥१ ॥

सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।

 तदिन्द्रेणजयत तत्सहद्दवं युधो नर ऽइषुहस्तेन वृष्णा ॥२॥

सऽइषुहस्तैः सनिषङ्गिभिर्वशी स ठ स्त्रष्टा सयुधऽइंद्रो गणेन।

 स ठ सृष्टजित् सोमपा बाहु - शर्युग्रधन्वा प्रतिहिताभिरस्ता ॥३॥

बृहस्पते परिदीया रथेन रक्षोहा मित्राँ २ अपबाधमानः ।

 प्रभञ्जन्त्सेनाः प्रमृणो युधा - जयन्त्रस्माक मेद्भयविता रथानाम् ॥४॥

बल विज्ञाय स्त्थविरः प्रवीरः सहस्वान् वाजी सहमानऽउग्रः ।

 अभिवीरोऽअभि सत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् ॥५ ॥

गोत्रभिङ्‌गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा।

 इम ठ सजाता अनुवीरयद्ध्वमिन्द्र  सखायोऽनु स ठ रभद्ध्वम् ॥६ ॥

अभिगोत्राणि सहसा गाहमानोदयोवीरः शतमन्युरिन्द्रः । 

दुश्चवनः पृतनाषाड युध्योऽस्माक र्ट सेना अवतु प्रयुत्सु ॥७॥

इंद्र आसान्ने ता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।

 देव सेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम् ॥८ ॥

इंद्रस्य वृष्णो वरुणस्य राज्ञऽआदित्यानां मरुता  शर्द्धउग्रम्।

 महा मनसांभुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥९ ॥

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानांमनाऽसि। 

उद्धृत्रहन् वाजिनां वाजिनान्युद्र थानान्जयतों यन्तुघोषाः ॥१०॥

अस्माकमिन्द्रः समृतेषुदध्वजेष्वस्माकं याऽइषवस्ता जयन्तु ।

 अस्माकं वीराउत्तरेऽ भवन्त्वस्माँ२उदेवा अवता हवेषु ॥११॥

अमीषां चित्तं प्रति लोभयन्ती गृहाणाङ्गान्यप्वेपरेहि ।

 अभिप्रेहि निर्दहहृत्सु शोकैरन्धेनामित्रा स्तमसा सचन्ताम् ॥१२॥

अवसृष्टा परापत शरव्ये ब्रह्मसर्टशिते ।

 गच्छामित्रान्प्रपद्यस्व मामीषाङ्कञ्चनो च्छिषः ॥१३॥

प्रेता जयता नर इंद्रो वः शर्मयच्छतु । 

उग्रावः सन्तु बाहवो नाधृष्या यथासथ ॥१४॥

असौ या सेना मरुतः परेषामभ्यैति नऽओजसा स्पर्द्धमाना ।

 तां गूहत तमसाप व्रतेन यथामीऽअन्यो ऽअन्यन्न जानन् ॥१५ ॥

यत्र बाणाः संपतन्ति कुमारा विशिखाऽइव । 

तन्न इंद्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वाहा।

 शर्म यच्छतु ॥१६ ॥

मर्माणि ते वर्मणाच्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।

 उरोर्वरीयो वरुणस्ते कृणोतु जयन्तंत्वानु देवा मदन्तु ॥१७॥


५. चतुर्थ अध्याय

 चतुर्थोऽध्यायः

हरिः ओम् विभ्राड् बृहत्पिबतु सौम्यं मद्धवायुर्दधद्यज्ञ पतावविहुतम्।

 वातजूतोयोऽ अभिरक्षतित्वमना प्रजाः पुपोष पुरुधा विराजति ॥१ ॥

उद्दुत्त्यं जातवेदसं देवं वहन्ति केतवः ।

 दृशे विश्वाय सूर्यम् ॥२ ॥

येना पावक चक्षसा भुरण्यन्तं जनाँ२अनु।

 त्वं वरुण पश्यसि ॥३॥

दैव्यावद्ध्वर्यूऽआगत ठं रथेन सूर्यत्वचा।

 मद्धवा यज्ञ ठ समञ्जाथे तंप्रत्क्वथा ।

 ऽयंवेन -श्चित्रं देवानाम् ॥४॥

तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषद ठे स्वर्विदम्। 

प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनु यासु वर्द्धसे ॥५ ॥

अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने।

 इमम पा संगमे सूर्यस्य शिशुन्न - विप्रा मतिभी रिहन्ति ॥६ ॥

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।

 आप्रा द्यावापृथिवीऽअन्तरिक्ष ठं सूर्य आत्मा जगतस्तस्थुषश्च ॥७ ॥

आ न इडाभिर्विदथे सुशस्ति विश्वानरः सविता देवऽएतु। 

अपि यथा युवानो मत्सथानो - विश्वं जगदभिपित्वे मनीषा ॥८ ॥

यदद्यकच्च वृत्रहन्नु दगाऽअभि सूर्य्य।

 सर्वं तदिन्द्र ते वशे ॥९ ॥

तरर्णिविश्वदर्शतो ज्योतिष्कृदसि सूर्य।

 विश्वमाभासिरोचनम् ॥१०॥

तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्वितत ठ सं जभार।

 यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुतेसिमस्मै ॥११॥

तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।

 अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः संभरन्ति ॥१२॥

बणमहाँ २ असि सूर्य बडादित्य महाँ असि। 

महस्ते सतो महिमा पनस्यतेऽद्धा देवमहां असि ॥१३॥

बट् सूर्य श्रवसा महाँ२ असि सत्रा देव महाँ २ असि। 

मह्ना देवानामसुर्य्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥१४॥

श्रायन्त इव सूर्य विश्वेदिन्द्रस्य भक्षत।

 वसूनि जाते जनमान ओजसा प्रतिभागन्न दीधिम ॥१५ ॥

अद्या देवाऽउदिता सूर्यस्य निरर्टहसः पिपृता निरवद्यात्। 

तन्नो मित्रो वरुणो मामहन्तामदितिः सिंधुः पृथिवी उत द्यौः ॥१६ ॥

आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मत्र्त्यांच। 

हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥१७॥


६. पञ्चम अध्याय

 अथ पंचमोऽध्यायः

हरि ॐ नमस्ते रुद्र मन्यव उतो तऽइषवे नमः 

बाहुभ्यामुत ते नमः ॥१ ॥ 

याते रुद्र शिवा तनूरघोराऽपापकाशिनी।

 तयानस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥२ ॥

 यामिषं गिरिशन्त हस्ते बिभर्म्यस्तवे।

 शिवां गिरित्रतां कुरु माहि ठ सीः पुरुषं जगत् ॥३ ॥

 शिवेन वचसा त्वा गिरिशाच्छा वदामसि 

यथा नः सर्वमिज्जगदयक्ष्म ठ सुमनाऽअसत् ॥४॥

अद्ध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । 

अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्यो ऽधराचीः परासुवः ॥५ ॥

असौ यस्तोम्रोऽअरुण उत बभ्रुः सुमंगलः।

 ये चैन ठ रुद्राऽअभितो दिक्षुश्रिताः सहस्त्रशोऽवैषा हेडऽईमहे ॥६ ॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः । 

उतैनं गोपाऽअदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥७॥

नमोऽस्तु नीलग्रीवाय सहस्त्राक्षायमीढुषे ।

 अथो ये ऽअस्य सत्त्वानोऽहन्तेभ्योऽकरं नमः ॥८ ॥ 

प्रमुश्चधन्वनस्त्वमुभयोरात्क्र्योर्य्याम् ।

 याश्च ते हस्तऽइषवः पराता भगवो वप ॥९ ॥

विज्यंधनुः कपर्द्दिनो विशल्यो बाणवाँ २ उत। 

अनेशन्नस्य याऽइषव आभुरस्य निषङ्गधिः ॥१० ॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ।

 तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥११॥ 

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। 

अथो य इषुधिस्तवारेऽअस्मन्निधेहि तम् ॥ १२ ॥

अवतत्त्य धनुष्टव ठ सहस्त्राक्ष शतेषुधे।

 निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥१३

 नमस्ते आयुधायानाततायधृष्णवे।

 उभाभ्या मुत ते नमो बाहुभ्यां तवधन्वने ॥१४॥

 मा नो महान्तमुत मा नोऽअर्भकं मानऽउक्षन्तमुत मान उक्षितम्।

 मा नो वधीः पितरं मोत मातरं मानः प्रियास्तन्वो रुद्ररीरिषः ॥१५ ॥

मानास्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषु रीरिषः। 

मा नो वीरान् रुद्रभामिनो वधीर्हविष्मन्तः सदमित्वा हवामहे ॥१६ ॥

नमोहिरणय बाहवे सेनान्ये दिशां च पतये नमो नमो। 

वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः । 

शष्पिञ्जरायत्विषीमते पथीनां पतये नमो नमो 

हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो बभ्लुशाय ॥१७॥

नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो 

भवस्य हेत्यै जगतां पतये नमो नमो 

रुद्रा व्याततायिने क्षेत्राणां पतये नमो नमः 

सूतायाहन्त्यै वनानां पतये नमो नमो रोहिताय ॥ १८ ॥

नमो रोहितायस्त्थ पतये वृक्षाणं पतये नमो नमो 

भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो 

मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम

ऽउच्चैर्घोषा याक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्त्रायतया ॥१९॥

नमः कृत्स्त्रायतया धावते सत्त्वानां पतये नमो नमः 

सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमो

 निषङ्गिणे ककुभायस्तेना नाम्पतये नमो नमो 

निचेरवे परिचरायारण्यानां पतये नमो नमो वञ्चते ॥२०॥

नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो 

निषङ्गिणऽइषुधिमते तस्कराणां पतये नमो नमः

 सृकायिभ्यो जिघा सद्भ्योमुष्णतां पतये नमो नमो 

ऽसिमद्ध्योनक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥२१॥

नमऽउष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम

ऽइषुमद्भ‌यो धन्वायिभ्यश्च वो नमो नमऽ 

आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम

ऽआयच्छद्भ्योऽस्यद्भयश्च वो नमो नमो विसृजद्भयः ॥२२॥

नमो विसृजद्ध्‌यो विद्धयद्भ्यश्च वो नमो नमः 

स्वपद्भट्यो जाग्रद्भ्यश्च वो नमो नमः 

शयानेभ्यऽआसीनेभ्यश्च वो नमो नम

स्तिष्ठद्भ्योधावद्भ्यश्च वो नमो नमः सभाभ्यः ॥२३॥

नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो

ऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम

 ऽआव्याधिनीभ्यो विविद्ध्ययन्तीभ्यश्च वो नमो नम

 ऽउगणाभ्यस्तृ ठ हतीभ्यश्च वो नमो नमो गणेभ्यः ॥२४॥

नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो 

व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो 

गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो 

विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः सेनाभ्यः ॥ २५ ॥

नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो 

रथिभ्यो ऽअरथेभ्यश्च वो नमो नमः 

क्षतृभ्य संगृहीतृभ्यश्च वो नमो नमो 

महद्भ्योऽअर्भकेभ्यश्च वो नमः ॥ २६ ॥

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः 

कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो 

निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः

 श्वनिभ्यो मृगयुभ्यश्च वो नमो नमः श्वभ्यः ॥२७ ॥

नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो 

भवाय च रुद्राय च नमः 

शर्वाय च पशुपतये च नमो

 नील ग्रीवाय च शितिकण्ठाय च नमः कपर्द्दिने ॥२८ ॥

नमः कपर्द्दिने च व्युप्तकेशाय च नमः

 सहस्राक्षाय च शतधन्वने च नमो

 गिरिशयाय चशिपिविष्टाय च नमो 

मीढुष्टमाय चेषुमत च नमो ह्रस्वाय ॥२९॥

नमो ह्रस्वाय च वामनाय च नमो 

बृहते च वर्षीयसे च नमो 

वृद्धाय च सवृधे च नमो

 ऽग्रयाय च प्रथमाय च नम ऽआशवे ॥३०॥

- नम ऽआशवे चाजिराय च नमः 

र्शीघ्ग्राय च शीभ्याय च नमः 

ऊर्याय चावस्वन्न्याय च नमो 

नादेयाय च द्वीप्याय च ॥३१॥

नमो ज्येष्ठाय च कनिष्ठाय च नमः 

पूर्वजाय चापरजाय च नमो 

मध्यमाय चापगल्भाय च नमो 

जघन्याय च बुध्याय च नमः सोभ्याय ॥३२॥

नमः सौभ्याय च प्रतिसर्य्याय च नमो

 याम्याय च क्षेम्म्याय च नमः 

श्लोक्याय चावसन्याय च नमऽ

 उर्व्वय्याय च खल्याय च नमो वन्न्याय ॥३३॥

नमो वन्याय च कक्ष्याय नमः 

श्रवाय च प्रतिश्रवाय च नमऽ

आशुषेणाय चाशुरथाय च नमः

 शूराय चावभेदिने च नमो बिल्मिने ॥३४॥

नमो बिल्म्मिने च कवचिने च नमो

 व्वम्मिणे च वरूथिने च नमः 

श्रुताय च श्रुतसेनाय च नमो 

दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे ॥३५॥

नमो धृष्णवे च प्रमृशाय च नमो

 निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे 

चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥३६ ॥

नमः सुत्याय च पत्थ्याय च नमः 

काट्‌याय च नीप्याय च नमः 

कुल्ल्याय च सरस्याय च नमो 

नादेयाय च वैशन्ताय च नमः कूप्याय ॥३७॥

नमः कूप्याय चावट्याय च नमो 

वीध्याय चातप्याय च नमो 

मेग्ध्याय च विद्युत्त्याय च नमो

 वर्ष्याय चावर्ष्याय च नमो वात्त्याय ॥ ३८ ॥

नमो वात्त्याय च रेष्याय च नमो

 वास्तव्याय च वास्तुपाय च नमः 

सोमाय च रुद्राय च नम

स्ताम्राय चारुणाय च नमो शङ्गवे ॥३९॥

नमः शङ्गवे च पशुपतये च नमऽ

 उग्राय च भीमाय च नमो

ऽग्ग्रेवधाय च दूरेवधाय च नमो

 हन्त्रे च हनीयसे च नमो 

वृक्षेब्भ्यो हरिकेशेभ्यो नमस्ताराय ॥४० ॥

नमः शम्भवाय च मयोभवाय च नमः 

शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥४१ ॥

नमः पार्थ्यांय चावार्याय च नमः

 प्प्रतरणाय चोत्तरणाय च नम

स्तीत्यय च कुल्ल्याय च नमः 

शष्याय च फेन्याय च नमः सिकत्याय ॥४२ ॥

नमः सिकत्त्याय च प्रवाह्याय च नमः

 कि ठं शिलाय च क्षयणाय च नमः 

कपर्द्दिने च पुलस्तये च नमऽ 

इरिण्याय च प्रपत्थ्याय च नमो व्रज्याय ॥४३ ॥

नमो व्रज्याय च गोष्ठ्याय च नम

स्तल्प्याय च गेह्ययाय च नमो 

हृदय्याय च निवेष्याय च नमः 

काट्याय च गह्वरेष्ठाय च नमः शुष्क्याय ॥४४॥

नमः शुष्क्याय च हरित्याय च नमः

 पा सव्याय च रजस्याय च नमो 

लोप्याय चोलप्याय च नमऽ

 ऊर्व्याय च सूर्य्याय च नमः पर्णाय ॥४५ ॥

नमः पर्णाय च पर्णशदाय च नमऽ 

उद्‌गुरमाणाय चाभिग्घ्नते च नमऽ 

आखिदते च प्रखिदते च नमऽ 

इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो 

नमो वः किरिकेभ्यो देवाना हृदयेब्भ्यो नमो 

विचिन्वत्केभ्यो नमो विक्षिणत्केब्भ्यो नमऽ आनिर्हतेभ्यः ॥४६ ॥

द्रापेऽअन्धसस्प्पते दरिद्र नीललोहित। 

आसाम्प्रजानामेषाम्पशूनाम्माभेर्मा रोमोचनः किञ्चनाममत् ॥४७॥

इमा रुद्राय तवसे कपर्द्दिने क्षयद्वीराय प्रभरामहेमतीः । 

यथा शमसद् द्विपदे चतुष्पदे विश्श्वम्पुष्ट्टङ्‌ग्रामेऽ अस्मिन्ननातुरम् ॥४८ ॥

-या ते रुद्र शिवा तनूः शिवा विश्श्वाहा भेषजी। 

शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥४८ ॥

परि नो रुद्रस्य हेतिर्वृणक्क्तु परित्वेषस्य दुर्मतिरघायोः ।

 अवस्त्थिरा मघवद्भ्यस्तनुष्व मीद्वस्तोकाय तनयाय मृड ॥५०॥

मीढुष्टम शिवतम शिवो नः सुमना भव।

परमेवृक्षऽआयुधन्निधायकृत्तिं वसानऽआचर पिनाकम्बिब्भ्रदागहि ॥५१॥

 विकिखि व्विलोहित नमस्तेऽअस्तु भगवः। 

यास्ते सहस्त्र ठ हेतयोऽन्यमस्म्मन्निवपन्तु ताः ॥५२ ॥

सहस्त्राणि सहस्त्रशो जाह्वोस्तव हेतयः। 

तसामीशानो भगवः पराचीना मुखाकृधि ॥५३॥

असङ्ख्याता सहस्त्राणि ये रुद्राऽअधिभूम्याम्।

 तेषा सहस्त्र योजनेऽव धन्वानि तन्मसि ॥५४॥

- अस्म्मिन्महत्यर्णवेऽन्तरिक्षे भवाऽअधि। 

तेषा  सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥५५ ॥

नीलग्रीवाः शितिकण्ठाः दिव ठं रुद्राऽउपश्रिताः। 

तेषा  सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥५६ ॥

नीलग्रीवाः शितिकण्ठाः शर्वाऽअधः क्षमाचराः । 

तेषा  सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥५७ ॥

ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः । 

तेषा  सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥५८ ॥

ॐ ये भूतानामधिपतयो विशिखासः कपर्द्दिनः ।

 तेषा  सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥५९ ॥

ये पथां पथि रक्षय ऽऐलबृदाऽआयुर्युधः ।

 तेषा  सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥ ६० ॥

ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।

 तेषा  सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥६१ ॥

येन्नेषु विवद्धयन्ति पात्रेषु पिबतो जनान् ।

 तेषा  सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥ ६२ ॥

ये एतावन्तश्च भूया सश्च दिशो रुद्रा वितस्त्थिरे। 

तेषा  सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥६३॥

ॐ नमोऽस्तु रुद्रेब्भ्यो ये दिवि येषाँ वर्षमिषवः

 तेभ्यो दश प्राचीर्द्दश दक्षिणा दशप्रतीचीदेशोदीचीर्दशोद्धर्वाः ।

 तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते

 यद्विष्मो यश्च नो द्वेष्टि तमेषां जम्भेदद्ध्म ॥६४॥

नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातऽइषवः ।

 तेभ्योदश प्राचीर्दश दक्षिणा दश प्रतीची र्दशोदीचीर्दशोद्धर्वाः । 

तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते 

यं द्विष्मो यश्श्च नो द्वेष्टितमेषां जम्भे दध्मः ॥६५ ॥

नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः । 

तेभ्यो दशप्राचीर्दश दक्षिणादश प्रतीचीर्दशोदी चीर्दशोर्ध्वाः ।

 तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते

 यं द्विष्मो यश्श्च नो द्वेष्टितमेषां जम्भे दध्मः ॥६६ ॥

(इसके बाद नमस्ते इत्यादि १६ मंत्रों का पाठ करें)


७. षष्ठ अध्याय

अथ षष्ठोध्याय 

एष ते रुद्र भागः सहस्वस्त्राम्बिकया तं जुषस्व स्वाहा।

 एष ते रुद्रभागऽआखुस्ते पशुः ॥१ ॥ 

अवरुद्र मदीमह्यव देवंत्र्यम्बकम् । 

यथा नो वस्यसस्करद्यथानः 

श्रेयसस्करद्यथानो व्यवसाययात् ॥२ ॥

नमस्ते रुद्र मन्यव उतोत इषवे नमः।

 बाहुभ्यामुत ते नमः ॥३ ॥

या ते रुद्र शिवा तनूर घोराऽपापकाशिनी।

तयांनस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥४ ॥

न तं विदाथ य ऽइमा जजानान्यद्युष्माकमन्तरं बभूव । 

नीहारेण प्रावृता जल्प्या चासुतृपउक्थशासश्चरन्ति ॥५ ॥

विश्वकर्मा ह्यजनिष्ट देवऽआदिद्गन्धर्वोऽअभवद्वितीयः ।

 तृतीयः पिता जनितौषधीनामपां गर्भ व्यदधात्पुरुत्रा ॥६ ॥

मीढुष्टम शिवतम शिवो नः सुमना भव। 

परमे वृक्ष आयुधं निधायकृत्तिं वसानऽआचर पिनाकम्बिभ्रदा गहि ॥७ ॥

विकिरिद्र विलोहित नमस्तेऽअस्तुभगवः ।

 यास्ते सहस्त्र ठ हेतयोऽन्यमस्मन्निव पन्तुताः ॥८ ॥

सहस्त्राणि सहस्त्रशो बाह्वोस्तव हेतयः ।

 तासामीशानो भगवः पराचीना मुखाकृधि ॥९ ॥

असंख्याताः सहस्त्राणि ये रुद्रा अधिभूम्याम्।

 तेषा सहस्त्र योजनेव धन्वानि तन्मसि ॥१० ॥

वय ठं सोमव्रते तव मनस्तनूषु विभ्रतः ।

 प्रजावन्तः सचेमहि ॥११॥

एष ते रुद्रभागः सहस्वस्त्राम्बिकया तनुषस्व स्वाहा।

 एष ते रुद्रभागऽआयुस्ते पशुः ॥१२ ॥ 

अवरुद्र मदीमह्यव देवंत्र्यंबकम् ।

 यथा नो वस्यसस्करद्यथा नः 

श्रेयसस्करद्यथा नो व्यवसाययात् ॥१३॥

भेषजमसि भेषजङ्ग‌वेऽश्वाय पुरुषाय भेषजम्। 

सुखम्मेखायमेष्यै ॥१४॥

त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्द्धनम् । 

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥१५ ॥ 

त्र्यम्बकं यजामहे सुगंधिं पतिवेदनम्। 

उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥१६ ॥

एतत्ते रुद्रावसन्तेन परो मूजवतोतीहि। 

अवततधन्वा पिनाकावसः कृत्तिवासाऽअहि 

ठं सन्त्रः शिवोऽतीहि ॥१७॥

त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्। 

यद्देवेषु त्र्यायुषं तन्नोऽअस्तु त्र्यायुषम् ॥१८ ॥

शिवो नामासि स्वधितिस्ते पिता 

नमस्तेऽअस्तु मा मा हि ठ सीः। 

निवर्त्तयाम्यायुषेन्नाद्याय । 

प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्य्याय ॥१९॥


८. सप्तम अध्याय

अथ सप्तमोध्याय 

 (पुराने छठे अध्याय के शेष शोक)

हरि ॐ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च। 

सासह्वांश्चाभियुग्वा च विक्षिपः स्वाहा ॥१ ॥ 

अग्नि ठं हृदयेनाशनि ठं हृदयाग्रेण 

पशुपतिं कृत्स्त्र हृदयेनभवं यक्ना। 

शर्वम्मतस्त्राभ्या मीशानंमन्युना महादेवमन्तः 

पर्शव्येनोग्रं देवं वनिष्ठना वसिष्ठहनुः 

शिङ्गीनि कोश्याभ्याम् ॥२॥

-उग्रं लोहितेन मित्र ठं सौव्रत्येन रुद्रं 

दौव्रत्ये नेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान्प्रमुदा ।

 भवस्य कण्ठ्य ठरुद्रस्यान्तः पार्थ्यं महादेवस्य 

यकृच्छर्वस्य वनिष्ठः पशुपतेः पुरीतत् ॥३ ॥

(नोट :- लोमभ्य से यमाय स्वाहान्तकाय........ 

इन चार श्रीकों का पाठ यहां शुभ नहीं माना जाता है, 

अतः इनकी जगह निम्न पांच ऋचायें पढ़ें - 

(लोकाचारानुसार करें)

ॐ स्वस्ति न इन्द्रो....॥४ ॥ पयः पृथिव्यां.... ॥५ ॥ विष्णोरराटमसि..... ॥६ ॥ अग्निर्देवता वातो देवता... ॥७ ॥ द्यौः शांतिरन्तरिक्ष ठ शांति..... ॥८ ॥)

लोमभ्यः स्वाहा लोमभ्य स्वाहा, त्वचे स्वाहा त्वचे स्वाहा, लोहिताय स्वाहा, लोहितायस्वाहा, मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा। मा सेभ्यः स्वाहा मा सेभ्यः स्वाहा, स्त्रावभ्यः स्वाहा स्त्रावभ्य स्वाहा, अस्थभ्यः स्वाहा अस्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा। रेतसे स्वाहा पायवे स्वाहा ॥४॥

आयासाय स्वाहा प्रायासाय स्वाहा संयायाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा। शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥५॥

तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा। निष्कृत्यै स्वाहा प्रायश्चित्यै स्वाहा भेषजाय स्वाहा ॥६ ॥

यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा। ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्योदेवेभ्यः स्वाहा द्यावापृथिवीभ्या स्वाहा ॥७॥


९. अष्टम अध्याय

 अथाष्टमोऽध्यायः (नवीन)

(प्राचीन सप्तमोध्याय)

(पाराशर मतेन नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः ।

 रुद्र सहितानुसारे अत्र पाठाऽभाव)

 हरिः ॐ वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मेलोकश्च मे श्रवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च मे यज्ञेन कल्पन्ताम् ॥१ ॥

प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसश्च मे । चित्तं चमऽआधीतं च मे वाक्न मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे यज्ञेन कल्पन्ताम् ॥२॥

ओजश्च मे सहश्च मऽआत्त्वत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थीनि च। -मे परू षि च मे शरीराणि चम ऽआयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥३ ॥

ज्यैष्ठ्यं च मऽआधिपत्यं च मे मन्युश्च मे भामश्च मे मश्च मेम्भश्च मे जेमा च मे महिमा च - मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राधिमा च मे वृद्धं च मे वृद्धिश्च मे यज्ञेन कल्पन्ताम् ॥४ ॥

(नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

- सत्यं च मे, श्रद्धा च मे जगच्च मे, धनं च मे विश्वं च मे महश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥५ ॥

ऋतं च मेऽमृतं च मेऽयक्ष्मं च मे नामयच्च मेजीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं चमेऽभयं च मे सुषं च मे शयनं च मे सूषाश्च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥६ ॥

यन्ता च मे धर्त्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सुश्च मे प्रसूश्चमे सीरं च मे लयश्च मे यज्ञेन कल्पन्ताम् ॥७ ॥

शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भगश्च मे द्रविणं च मे भद्रं च मे श्रेयश्च मे वसीयश्च मे यशश्च मे यज्ञेन कल्पन्ताम् ॥८ ॥

(नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

उर्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधुं च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मऽऔद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥९ ॥

रयिश्च मे रायश्च मे पुष्टंच मे पुष्टिश्च मे विभु च मे प्रभु च मे पूर्ण चमे पूर्णतरं च मे कुयवं च मेऽक्षितं च मेऽन्नं च मे क्षुच्चमे यज्ञेन कल्पन्ताम् ॥१०॥

वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथ्यं च म ऽऋद्धं च मेऽऋद्धिश्च मे क्लृप्तं च क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥११ ॥

व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥१२ ॥

(नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥१३॥

अग्निश्च मऽआपश्च मे वीरुधश्चमऽओषधयश्च मे कृष्टपच्याश्च मे कृष्टपच्याश्च मे ग्राम्याश्च मे पशवऽआरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥१४॥

वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे ऽर्थश्चमऽएमश्चमऽइत्या च मे गतिश्च मे यज्ञेन कल्पन्ताम् ॥१५ ॥ (नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

अग्निश्च मऽइन्द्रश्च मे सोमश्च म ऽइन्द्रश्च मे सविता च मऽइन्द्रश्च मे सरस्वती च मऽइन्द्रश्च मे पूषा च मऽइन्द्रश्च मे बृहस्पतिश्च मऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥१६॥

मित्रश्चमऽइन्द्रश्च मे वरुणश्च म इन्द्रश्च मे धाता च मऽइन्द्रश्च मे त्वष्टा च मऽइन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवाऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥१७॥ 

पृथिवी च मऽइन्द्रश्च मे ऽन्तरिक्षं च मऽइन्द्रश्च मे द्यौश्च मऽइन्द्रश्च मे सामाश्च मऽइन्द्रश्च मे नक्षत्राणि च मऽइन्द्रश्च मे दिशश्च मऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥१८ ॥

(नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

अर्ठ शुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च मऽउपा शुश्च मे ऽन्तर्यामश्च मऽऐन्द्र वायवश्च मे मैत्रावरुणश्च मऽआश्विनश्च मे प्रति प्रस्त्थानश्च मे शुक्रश्च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥१९॥

आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे ऐन्द्राग्नश्च मे महावैश्वदेवश्च मे मरुत्वती याश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्त्रिवतश्च मे हारियोजनश्च मे यज्ञेन कल्पन्ताम् ॥२०॥

स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणाश्च मेऽधिषवणे च मे पूतभृच्च मऽआधवनीयश्च मे वेदिश्च मे बर्हिश्च मेऽवभृथयश्च मे स्वगाकारश्च में यज्ञेन ऽकल्पन्ताम् ॥२१ ॥

(नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मेऽङ्गुलयः शक्करयो दिशश्च मे यज्ञेन कल्पन्ताम् ॥२२॥

व्रतंच मऽऋतवश्च मे तपश्च मे संवत्सरश्च मे ऽहोरात्रे ऽऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥२३॥ 

(नमस्ते इत्यादि ६६ मंत्रात्मको नमकाध्यायः पठनीयः)

एकाचमे तिस्रश्च मे तिस्त्रश्च मे पंच च मे पंच च मे सप्त मे च सप्त च मे। नव च मे नवच म ऽएकादशच मे ऽएकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽएकवि ठ शतिश्चमऽएकवि ठं शतिश्च मे त्रयोवि ठ शतिश्च मे त्रयोविर्टशतिश्च मे पंचवि र्ट शतिश्च मे पंचवि ठ शतिश्च मे सप्तवि ठ शतिश्च मे सप्तवि र्ट शतिश्च मे नववि र्ट शतिश्च मे नववि ठ शतिश्च म ऽएकत्रि ठंवेशच्यम ऽएकत्रि ठं शच्च मे त्रयस्त्रि ठे शच्च मे यज्ञेन कल्पन्ताम् ॥२४॥

(नमस्ते इत्यादि ६६ मंत्रों से मंत्रात्मको नमकाध्यायः पठनीयः)

चतस्त्रश्च मे ऽष्टौ च मेऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विठ शतिश्च मे वि ठ शतिश्च मे चतुर्वि ठे शतिश्च मे चतुर्वि ठे शतिश्च मे ऽष्टावि र्ट शतिश्च मेऽष्टावि ठ शतिश्च मे द्वात्रि र्ट शच्च मे द्वात्रि र्ट शच्च मे षट्त्रिं ठं शच्च मे ष‌ट्त्रि र्ट शच्च मे चत्वारि ठे शच्च मे चत्वारि र्ट शच्च मे चतुश्चत्वारि र्ट शच्च मे चतुश्श्चत्वारि ठं शच्च मे ऽष्टाचत्वारि ठं शच्च मे यज्ञेन कल्पन्ताम् ॥ २५ ॥

(नमस्ते इत्यादि ६६ मंत्रों से मंत्रात्मको नमकाध्यायः पठनीयः)

त्र्यविश्च मे त्र्यवीच मे दित्यवाट् च मे दित्यौही च मे पंचाविश्च मे पंचावीच मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्योही च मे यज्ञेन कल्पन्ताम् ॥ २६ ॥ पष्ठवाट्च मे पष्ठौही च मऽउक्षा च मे वशा च मऽऋषभश्च मे वेहच्च मेऽनड्वांश्च मे धेनुश्च मे यज्ञेन कल्पन्ताम् ॥२७॥

(अत्र रुद्र संहितानुसारेण 'गणानांन्त्त्वा' इत्यारंभ्य नमकाध्यायन्तं पठनीयः।

 वृहत् पाराशर मतेन रौद्राध्यायपठनीयः)

व्वाजाय स्वाहा प्रसवाय स्वाहा पिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा हर्पतये स्वाहाह्वे मुग्धाय स्वाहा मुग्धायवैन र्ट शिनाय स्वाहा विन ὁ शिनऽआन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाऽधिपतये स्वाहा प्रजापतये स्वाहा। इयं ते राण्मित्राययंतासि यमनऽऊर्जे त्वा वृष्ट्यै त्वा प्रजानांत्वाधिपत्याय ॥२८ ॥

आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पन्तां चक्षुर्यज्ञेन कल्पता श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनोयज्ञेन कल्पतां आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर्यज्ञेन कल्पता स्वर्यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञोयज्ञेन कल्पताम्। स्तोमश्च यजुश्च ऽऋक् च साम च बृहच्च रथन्तरञ्च स्वर्देवाऽअगन्मामृताऽअभूम प्रजापतेः प्रजाऽअभूम वेट् स्वाहा ॥ २९ ॥


१०. शान्ति अध्याय

 अथ शान्त्याध्यायः

(प्राचीन अष्टमोऽध्यायः)

हरि ॐ ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये चक्षुः श्रोत्रं प्रपद्ये।

 वागोजःसहौजो मयि प्राणापानौ ॥१ ॥

यन्मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृणं बृहस्पतिम्र्मेतद्दधातु। 

शं नो भवतु भुवनस्य यस्पतिः ॥२ ॥

भूर्भुवः स्वः ।

 तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥३ ॥

 कयानश्चित्र ऽआभुवदूती सदावृधः सखा।

 कया शचिष्ठया वृता ॥४॥ 

कस्त्वा सत्यो मदानाम्म ठ हिष्ठो मत्सदन्धसः ।

 दृढा चिढारुजे वसु ॥५॥ 

अभीषुणः सखीनामविता जरितृणाम् । 

शतम्भवास्यूतिभिः ॥६ ॥ 

कयात्व न ऽऊत्याभि प्रमन्दसे वृषन् ।

 कया स्तोतृभ्य आभर ॥७॥ 

इंद्रो विश्वस्य राजति। शं नोऽअस्तु द्विपदे।

 शं चतुष्पदे ॥८ ॥

 शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा।

 शं न ऽइन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥९ ॥

 शन्नो वातः पवता शन्नस्तपतु सूर्यः ।

 शन्नः कनिक्रदद्देवः पर्जन्योऽअभि वर्षतु ॥१०॥

अहानि शं भवन्तु नः श ठ रात्रिः प्रतिधीयताम्।

 शं न इन्द्राग्नि भवतामवोभिः शं न इन्द्रावरुणा रातहव्या। 

शन्न इन्द्रा पूषणा वाजसातौ शमिन्द्रासोमा सुविताय शंयोः ॥११॥

शं नो देवीरभिष्टय आपो भवन्तु पीतये ।

 शंयोरभि स्त्रवन्तु नः ॥१२॥ 

स्योना पृथिवी नो भवानृक्षरा निवेशनी।

 यच्छा नः शर्म सप्रथाः ॥१३॥ 

आपो हिष्ठा मयो भुवस्ता न ऊर्जेदधातन।

 महेरणाय चक्ष से ॥१४॥

 यो वः शिवतमोरसस्तस्य भाजयतेह नः ।

 उशतीरिवः मातरः ॥१५॥

 तस्मा अरङ्गमाम वो यस्य क्षयायजिन्वथ। 

आपो जनयथा च नः ॥१६ ॥

द्यौः शान्तिरन्तरिक्ष ठ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । 

वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः 

सर्व ठ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥१७॥

दृतेदृ ठ हमा मित्रस्य मा चक्षुषा 

सर्वाणि भूतानि समीक्षन्ताम्। 

मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे

 मित्रस्य चक्षुषा समीक्षामहे ॥१८ ॥

दृतेह ठ हमा ज्योक्ते सन्दृशि जीव्यासं

 ज्योक्ते सन्दृशि जीव्यासम् ॥१९॥

 नमस्ते हरसे शोचिषे नमस्तेऽअस्त्वर्चिषे।

 अन्याँस्तेऽअस्मत्तपन्तु हेतयः 

पावकोऽअस्मभ्यशिवोभव ॥२०॥

नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे (नवे) 

नमस्ते भगवन्नस्तु यतः स्वः समीहसे ॥ २१ ॥

 यतो यतः समीहसे ततो नो अभयं कुरु।

 शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥२२॥

 सुमित्रिया नऽआप औषधयः 

सन्तु दुर्भित्रियास्तस्मै सन्तु।

 योऽस्मान्द्वेष्टियं च वयंद्विष्मः ॥२३ ॥

 तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।

 पश्येम शरदः शतं जीवेम शरदः 

शत ठं शृणुयाम शरदः शतं प्रव्रवाम शरदः शतमदीनाः 

स्याम शरदः शतं भूयश्च शरदः शतात् ॥२४ ॥


११. स्वस्ति प्रार्थना

 ॥ अथस्वस्ति प्रार्थना मन्त्राऽध्यायः ॥

हरिः ॐ स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।

 स्वस्ति नस्तार्थ्यो। ऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥१ ॥

ॐ पयः पृथिव्यां पयऽओधीषु पयो दिव्यन्तरिक्षे पयोधाः।

 पयस्वतीः प्रदिशः सन्तुमह्यम् ॥२ ॥

ॐ विष्णोरराटमसि विष्णोः श्रप्त्रेस्त्थो विष्णोः स्यूरसि विष्णोध्रुवोऽसि। 

वैष्णवमसि विष्णवे त्वा ॥३ ॥

ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽऽदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥४॥

ॐ सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः। भवे भवेनाति भवेभवस्व मां भवोद्भवाय नमः ॥५॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः। कालाय नमः कलविकरणाय नमो बलविकरणाय नमः ॥६ ॥

बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥७॥

अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः ।

 सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽअस्तु रुद्ररूपेभ्यः ॥८ ॥

तस्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥९ ॥

ईशानः सर्व-विद्यानामीश्वरः सर्वभूतानाम्। 

ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे ऽअस्तु सदा शिवोम् ॥१० ॥

ॐ शिवो नामासि स्वधितिस्ते पितानमस्तेऽअस्तु मामाहि ठं सीः। 

निवर्त्तयाम्यायुषेन्नाद्याय

प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥११॥

ॐ विश्वानि देव सवितर्दुरितानि परासुव।

 यद् भद्रं तन्त्र आसुव ॥१२॥

ॐ द्यौः शान्तिरन्तरिक्ष ठं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व ठ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥१३॥

ॐ सर्वेषां वा एष वेदानां रसो यत्साम सर्वेषामेवैनमेतद्वेदाना रसेनाभिषिञ्चति ॥१४॥

ॐ शान्तिः शान्तिः सुशान्तिर्भवतु सर्वारिष्ट शान्तिर्भवतु। अनेन रुद्राभिषेक कर्मणा कृतेन श्रीभगवन्भवानीशंकर महारुद्रः प्रीयतां न मम ॥ ॐ सदा शिवार्पणमस्तु ॥१५ ॥

॥ इति स्वस्ति प्रार्थनामन्त्राऽध्यायः ॥

॥ इति रुद्राध्याय सम्पूर्णम् ॥

No comments:

Post a Comment