॥ पूजन प्रारम्भ ॥
पवित्रकरणम्
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा।
वः स्मरेत् पुण्डरीकाक्षं स वाह्याभ्यन्तरः शुचिः ॥
आचम्य
ॐ केशवाय नमः, ॐ माधवाय नमः, ॐ नारायणाय नमः आचमन करें ॐॐॐ हृषीकेशाय नमः
हाथ धो ले
आसन शुद्धि
ॐ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धूता।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
पवित्री (पैंती) धारणम्
ॐ पवित्रे स्त्थो वैष्णव्यौ सवितुर्वः प्रसवऽ उत्त्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्र पूतस्य यक्कामः पूनेतच्छकेयम् ॥
यज्ञोपवीत
ॐ यज्ञोपवीतं परमं पवित्रं प्रजा पतेर्यंत सहजं पुरुस्तात।
आयुष्वं मग्रंथ प्रतिमुन्च शुभ्रं यज्ञोपवितम बलमस्तु तेजः ॥
शिखावन्धन
ॐ चिद्रूपिणि महामाचे दिव्यतेजः समन्विते ।
तिष्ठ देवि शिखामध्ये तेजोवृद्धि कुरुव मे ॥
तिलक
ॐ चन्दनस्य महत्पुण्यम् पवित्रं पापनाशनम् ।
आपदां हरते नित्यम् लक्ष्मी तिष्ठ सर्वदा ॥
ॐ स्वस्तिस्तु याऽ विनशाख्या धर्म कल्याण वृद्धिदा।
विनायक प्रिया नित्यं तां स्वस्तिं भो ब्रवेतु नः ।॥
रक्षाबन्धनम्
ॐॐॐ येन बद्धो बलि राजा, दानवेन्द्रो महाबलः ।
तेन त्वाम् प्रतिवद्धनामि रक्षे माचल माचलः ।।
ॐ व्रतेन दीक्षामाप्नोति, दीक्षयाऽऽप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति, श्रद्धया सत्यमाप्यते ॥
स्वस्ति-वाचन
ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽ दब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥१॥ देवानां भद्रा सुमतिक्रर्क जूयतान्देवाना राति रभिनो निवर्तताम् ।
देवाना ७ सख्यमुपसेदिमा वधन्देवान आयुः प्रतिरन्तु जीवसे ॥२॥
तान्पूर्वया निविदा हूमहेवयम् भगम् मित्रमदितिन् दक्षमस्रिथम् । अर्यमणं वरुण सोम मञ्चिना सरस्वती नः सुभगा मयस्करत् ॥३॥
तन्नो वातो मयो भुवातु भेषजन् तन्माता पृथिवी तत्पिता यौः ।
तद् ग्रावाणः सोमसुतो मयो भुवस्तदञ्चिना शृणुतन् धिष्ण्या युवम् ॥४॥
तमीशानन् जगतस् तस्थुषस्पतिन् धियञ्जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥५॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः ।
स्वस्ति नस्ताक्ष्यों अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥६॥
पृषदचा मरुतः पृनिमातरः शुभं व्यावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सरचक्षसो विश्वेनो देवा अवसा गमन्निह ॥७॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये माक्षभिर्यजत्राः ।
स्थिरै रङ्गैस्तुष्टुवा सस्तनूभिर् व्यशेमहि देवहितं बदायुः ॥८॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसन् तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मानो मध्यारी रिषतायुर्गन्तोः ॥९॥
अदितिर्थी रदितिरन्त रिक्षमदितिर् माता सपिता सपुत्रः ।
विश्वे देवा अदितिः पञ्चजना अदित्तिर् जातमदित्तिर् जनित्वम् ॥१०॥
द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्चे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि ॥११॥
वत्तो यत्तः समीहसे ततो नो अभयं कुरु ।
शन्नः कुरु प्रजाभ्योऽभवन्नः पशुभ्यः ॥१२॥
1. श्रीमनमहागणाधीपतये नमः
2. इष्ट देवताभ्यो नमः
3. कुल देवताभ्यो नमः
4. ग्राम देवताभ्यो नमः
5. स्थान देवताभ्यो नमः
6. वास्तु देवताभ्यो नमः
7. वाणीहिरण्यगर्भाभ्याम नमः
8. लक्ष्मी नारायणाभ्याम नमः
9. उमा महेश्वराभ्याम नमः
10. शची पुरंदाराभ्याम नमः
11. मातृ पितु चरण कमलेभ्यो नमः
12. सर्वेभ्यो देवेभ्यो नमः
13. सर्वेभ्यो ब्राह्मणेभ्यो नमः
14. एतत कर्म प्रधान देवताभ्यो नमः ।
सुमुखी एकदंतच कपिलो गजकर्णकः ।
लम्बोदरच विकटो विघ्ननाशो विनायकः ॥
धुम्रकेतुर् गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुवादपि ॥
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरम देवं शशि वर्णं चतुर्भुजम ।
प्रसन्नवदनं ध्यायेत सर्व विघ्नोपशान्तये ॥
पृथ्वी ध्यानम्
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
रक्षा विधानम्
अप सर्पन्तु ते भूता ये भूता भूमि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥
अपक्रामन्त भूतानि पिशाचाः सर्वतो दिशम् ।
सर्वेषाम विरोधेन पूजा कर्म समारभे ॥
यदत्र संस्थितं भूतं स्थान माश्रित्य सर्वतः ।
स्थानं त्यक्त्वा तु तत्सर्व यत्रस्थं तत्र गच्छतु ॥
भूत प्रेत पिशाचाद्या अपक्रामन्तु राक्षसाः ।
स्थानादस्माद् ब्रजन्त्यन्यत्स्वी करोमि भुवं त्विमाम् ॥
भूतानि राक्षसा वापि येत्र तिष्ठन्ति केचन ।
ते सर्व प्यपगच्छन्तु देव पूजां करोम्यहम् ॥
दिपस्थापनम्
ॐ शुभं करोतु कल्याण आरोग्यं सुख सम्पदाम् ।
मम बुद्धि विकाशाय दीपज्योतिर्नमोस्तुते ॥
भो दीप देव रूपस्त्वं कर्म साक्षी डाविघ्नकृत् ।
यावत्कर्म समाप्तिः स्यात तावत्वं सुस्थिरो भव ॥
सूर्यनमस्कार
ॐ आकृष्णेन रजसा वर्तमानो निवेश्शयन्नमूतम्मर्त्यञ्च ।
हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥
शंख पूजनम्
ॐ पांचजन्याय विद्यहे पावमानाय धीमहि।
तन्नो शंखः प्रचोदयात् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधूतः करें।
निर्मितः सर्वदेवेश्च पाञ्चजन्य नमोस्तुते ॥
घंटी पूजनम्
आगमार्थ तु देवानां गमनार्थ तु रक्षसाम् ।
घण्टा नाद प्रकुर्वीत पश्चात् घण्टां प्रपूजयेत ॥
No comments:
Post a Comment