अथ पंचमोऽध्यायः
हरि ॐ नमस्ते रुद्र मन्यव उतो तऽइषवे नमः
बाहुभ्यामुत ते नमः ॥१ ॥
याते रुद्र शिवा तनूरघोराऽपापकाशिनी।
तयानस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥२ ॥
यामिषं गिरिशन्त हस्ते बिभर्म्यस्तवे।
शिवां गिरित्रतां कुरु माहि ठ सीः पुरुषं जगत् ॥३ ॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि
यथा नः सर्वमिज्जगदयक्ष्म ठ सुमनाऽअसत् ॥४॥
अद्ध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्यो ऽधराचीः परासुवः ॥५ ॥
असौ यस्तोम्रोऽअरुण उत बभ्रुः सुमंगलः।
ये चैन ठ रुद्राऽअभितो दिक्षुश्रिताः सहस्त्रशोऽवैषा हेडऽईमहे ॥६ ॥
असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपाऽअदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥७॥
नमोऽस्तु नीलग्रीवाय सहस्त्राक्षायमीढुषे ।
अथो ये ऽअस्य सत्त्वानोऽहन्तेभ्योऽकरं नमः ॥८ ॥
प्रमुश्चधन्वनस्त्वमुभयोरात्क्र्योर्य्याम् ।
याश्च ते हस्तऽइषवः पराता भगवो वप ॥९ ॥
विज्यंधनुः कपर्द्दिनो विशल्यो बाणवाँ २ उत।
अनेशन्नस्य याऽइषव आभुरस्य निषङ्गधिः ॥१० ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥११॥
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः।
अथो य इषुधिस्तवारेऽअस्मन्निधेहि तम् ॥ १२ ॥
अवतत्त्य धनुष्टव ठ सहस्त्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥१३
नमस्ते आयुधायानाततायधृष्णवे।
उभाभ्या मुत ते नमो बाहुभ्यां तवधन्वने ॥१४॥
मा नो महान्तमुत मा नोऽअर्भकं मानऽउक्षन्तमुत मान उक्षितम्।
मा नो वधीः पितरं मोत मातरं मानः प्रियास्तन्वो रुद्ररीरिषः ॥१५ ॥
मानास्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषु रीरिषः।
मा नो वीरान् रुद्रभामिनो वधीर्हविष्मन्तः सदमित्वा हवामहे ॥१६ ॥
नमोहिरणय बाहवे सेनान्ये दिशां च पतये नमो नमो।
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः ।
शष्पिञ्जरायत्विषीमते पथीनां पतये नमो नमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो बभ्लुशाय ॥१७॥
नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रा व्याततायिने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्यै वनानां पतये नमो नमो रोहिताय ॥ १८ ॥
नमो रोहितायस्त्थ पतये वृक्षाणं पतये नमो नमो
भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम
ऽउच्चैर्घोषा याक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्त्रायतया ॥१९॥
नमः कृत्स्त्रायतया धावते सत्त्वानां पतये नमो नमः
सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमो
निषङ्गिणे ककुभायस्तेना नाम्पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमो वञ्चते ॥२०॥
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो
निषङ्गिणऽइषुधिमते तस्कराणां पतये नमो नमः
सृकायिभ्यो जिघा सद्भ्योमुष्णतां पतये नमो नमो
ऽसिमद्ध्योनक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥२१॥
नमऽउष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम
ऽइषुमद्भयो धन्वायिभ्यश्च वो नमो नमऽ
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
ऽआयच्छद्भ्योऽस्यद्भयश्च वो नमो नमो विसृजद्भयः ॥२२॥
नमो विसृजद्ध्यो विद्धयद्भ्यश्च वो नमो नमः
स्वपद्भट्यो जाग्रद्भ्यश्च वो नमो नमः
शयानेभ्यऽआसीनेभ्यश्च वो नमो नम
स्तिष्ठद्भ्योधावद्भ्यश्च वो नमो नमः सभाभ्यः ॥२३॥
नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो
ऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम
ऽआव्याधिनीभ्यो विविद्ध्ययन्तीभ्यश्च वो नमो नम
ऽउगणाभ्यस्तृ ठ हतीभ्यश्च वो नमो नमो गणेभ्यः ॥२४॥
नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः सेनाभ्यः ॥ २५ ॥
नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो
रथिभ्यो ऽअरथेभ्यश्च वो नमो नमः
क्षतृभ्य संगृहीतृभ्यश्च वो नमो नमो
महद्भ्योऽअर्भकेभ्यश्च वो नमः ॥ २६ ॥
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो
निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः
श्वनिभ्यो मृगयुभ्यश्च वो नमो नमः श्वभ्यः ॥२७ ॥
नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो
भवाय च रुद्राय च नमः
शर्वाय च पशुपतये च नमो
नील ग्रीवाय च शितिकण्ठाय च नमः कपर्द्दिने ॥२८ ॥
नमः कपर्द्दिने च व्युप्तकेशाय च नमः
सहस्राक्षाय च शतधन्वने च नमो
गिरिशयाय चशिपिविष्टाय च नमो
मीढुष्टमाय चेषुमत च नमो ह्रस्वाय ॥२९॥
नमो ह्रस्वाय च वामनाय च नमो
बृहते च वर्षीयसे च नमो
वृद्धाय च सवृधे च नमो
ऽग्रयाय च प्रथमाय च नम ऽआशवे ॥३०॥
- नम ऽआशवे चाजिराय च नमः
र्शीघ्ग्राय च शीभ्याय च नमः
ऊर्याय चावस्वन्न्याय च नमो
नादेयाय च द्वीप्याय च ॥३१॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः
पूर्वजाय चापरजाय च नमो
मध्यमाय चापगल्भाय च नमो
जघन्याय च बुध्याय च नमः सोभ्याय ॥३२॥
नमः सौभ्याय च प्रतिसर्य्याय च नमो
याम्याय च क्षेम्म्याय च नमः
श्लोक्याय चावसन्याय च नमऽ
उर्व्वय्याय च खल्याय च नमो वन्न्याय ॥३३॥
नमो वन्याय च कक्ष्याय नमः
श्रवाय च प्रतिश्रवाय च नमऽ
आशुषेणाय चाशुरथाय च नमः
शूराय चावभेदिने च नमो बिल्मिने ॥३४॥
नमो बिल्म्मिने च कवचिने च नमो
व्वम्मिणे च वरूथिने च नमः
श्रुताय च श्रुतसेनाय च नमो
दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे ॥३५॥
नमो धृष्णवे च प्रमृशाय च नमो
निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे
चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥३६ ॥
नमः सुत्याय च पत्थ्याय च नमः
काट्याय च नीप्याय च नमः
कुल्ल्याय च सरस्याय च नमो
नादेयाय च वैशन्ताय च नमः कूप्याय ॥३७॥
नमः कूप्याय चावट्याय च नमो
वीध्याय चातप्याय च नमो
मेग्ध्याय च विद्युत्त्याय च नमो
वर्ष्याय चावर्ष्याय च नमो वात्त्याय ॥ ३८ ॥
नमो वात्त्याय च रेष्याय च नमो
वास्तव्याय च वास्तुपाय च नमः
सोमाय च रुद्राय च नम
स्ताम्राय चारुणाय च नमो शङ्गवे ॥३९॥
नमः शङ्गवे च पशुपतये च नमऽ
उग्राय च भीमाय च नमो
ऽग्ग्रेवधाय च दूरेवधाय च नमो
हन्त्रे च हनीयसे च नमो
वृक्षेब्भ्यो हरिकेशेभ्यो नमस्ताराय ॥४० ॥
नमः शम्भवाय च मयोभवाय च नमः
शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥४१ ॥
नमः पार्थ्यांय चावार्याय च नमः
प्प्रतरणाय चोत्तरणाय च नम
स्तीत्यय च कुल्ल्याय च नमः
शष्याय च फेन्याय च नमः सिकत्याय ॥४२ ॥
नमः सिकत्त्याय च प्रवाह्याय च नमः
कि ठं शिलाय च क्षयणाय च नमः
कपर्द्दिने च पुलस्तये च नमऽ
इरिण्याय च प्रपत्थ्याय च नमो व्रज्याय ॥४३ ॥
नमो व्रज्याय च गोष्ठ्याय च नम
स्तल्प्याय च गेह्ययाय च नमो
हृदय्याय च निवेष्याय च नमः
काट्याय च गह्वरेष्ठाय च नमः शुष्क्याय ॥४४॥
नमः शुष्क्याय च हरित्याय च नमः
पा सव्याय च रजस्याय च नमो
लोप्याय चोलप्याय च नमऽ
ऊर्व्याय च सूर्य्याय च नमः पर्णाय ॥४५ ॥
नमः पर्णाय च पर्णशदाय च नमऽ
उद्गुरमाणाय चाभिग्घ्नते च नमऽ
आखिदते च प्रखिदते च नमऽ
इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो
नमो वः किरिकेभ्यो देवाना हृदयेब्भ्यो नमो
विचिन्वत्केभ्यो नमो विक्षिणत्केब्भ्यो नमऽ आनिर्हतेभ्यः ॥४६ ॥
द्रापेऽअन्धसस्प्पते दरिद्र नीललोहित।
आसाम्प्रजानामेषाम्पशूनाम्माभेर्मा रोमोचनः किञ्चनाममत् ॥४७॥
इमा रुद्राय तवसे कपर्द्दिने क्षयद्वीराय प्रभरामहेमतीः ।
यथा शमसद् द्विपदे चतुष्पदे विश्श्वम्पुष्ट्टङ्ग्रामेऽ अस्मिन्ननातुरम् ॥४८ ॥
-या ते रुद्र शिवा तनूः शिवा विश्श्वाहा भेषजी।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥४८ ॥
परि नो रुद्रस्य हेतिर्वृणक्क्तु परित्वेषस्य दुर्मतिरघायोः ।
अवस्त्थिरा मघवद्भ्यस्तनुष्व मीद्वस्तोकाय तनयाय मृड ॥५०॥
मीढुष्टम शिवतम शिवो नः सुमना भव।
परमेवृक्षऽआयुधन्निधायकृत्तिं वसानऽआचर पिनाकम्बिब्भ्रदागहि ॥५१॥
विकिखि व्विलोहित नमस्तेऽअस्तु भगवः।
यास्ते सहस्त्र ठ हेतयोऽन्यमस्म्मन्निवपन्तु ताः ॥५२ ॥
सहस्त्राणि सहस्त्रशो जाह्वोस्तव हेतयः।
तसामीशानो भगवः पराचीना मुखाकृधि ॥५३॥
असङ्ख्याता सहस्त्राणि ये रुद्राऽअधिभूम्याम्।
तेषा सहस्त्र योजनेऽव धन्वानि तन्मसि ॥५४॥
- अस्म्मिन्महत्यर्णवेऽन्तरिक्षे भवाऽअधि।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥५५ ॥
नीलग्रीवाः शितिकण्ठाः दिव ठं रुद्राऽउपश्रिताः।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥५६ ॥
नीलग्रीवाः शितिकण्ठाः शर्वाऽअधः क्षमाचराः ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥५७ ॥
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥५८ ॥
ॐ ये भूतानामधिपतयो विशिखासः कपर्द्दिनः ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥५९ ॥
ये पथां पथि रक्षय ऽऐलबृदाऽआयुर्युधः ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥ ६० ॥
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥६१ ॥
येन्नेषु विवद्धयन्ति पात्रेषु पिबतो जनान् ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्न्मसि ॥ ६२ ॥
ये एतावन्तश्च भूया सश्च दिशो रुद्रा वितस्त्थिरे।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥६३॥
ॐ नमोऽस्तु रुद्रेब्भ्यो ये दिवि येषाँ वर्षमिषवः
तेभ्यो दश प्राचीर्द्दश दक्षिणा दशप्रतीचीदेशोदीचीर्दशोद्धर्वाः ।
तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते
यद्विष्मो यश्च नो द्वेष्टि तमेषां जम्भेदद्ध्म ॥६४॥
नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातऽइषवः ।
तेभ्योदश प्राचीर्दश दक्षिणा दश प्रतीची र्दशोदीचीर्दशोद्धर्वाः ।
तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते
यं द्विष्मो यश्श्च नो द्वेष्टितमेषां जम्भे दध्मः ॥६५ ॥
नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः ।
तेभ्यो दशप्राचीर्दश दक्षिणादश प्रतीचीर्दशोदी चीर्दशोर्ध्वाः ।
तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते
यं द्विष्मो यश्श्च नो द्वेष्टितमेषां जम्भे दध्मः ॥६६ ॥
(इसके बाद नमस्ते इत्यादि १६ मंत्रों का पाठ करें)
No comments:
Post a Comment