Saturday, July 11, 2026

शिव नीरांजनम् 

हरिः ॐ नमोऽत्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।

 सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ १॥

 ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय गौरीनाथ ।

 त्वं मां पालय नित्यं, त्वं मां पालय शम्भो, कृपया जगदीश । 

ॐ हर हर हर महादेव ॥ २॥

 कैलासे गिरिशिखरे कल्पद्रुमविपिने, शिव कल्पद्रुमविपिने

 गुञ्जति मधुकर पुञ्जे, गुञ्जति मधुकरपुञ्जे गहने । 

कोकिलः कूजति खेलति, हंसावलिललिता

 रचयति कलाकलापं रचयति, कलाकलापं नृत्यति मुदसहिता ।

 ॐ हर हर हर महादेव ॥ ३॥

 तस्मिँल्ललितसुदेशे शालामणिरचिता, शिव शालामपिरचिता, 

तन्मध्ये हरनिकटे तन्मध्ये हरनिकटे, गौरी मुदसहिता ।

 क्रीडां रचयति भूषां रञ्जितनिजमीशम्, 

शिव रञ्जितनिजमीशं इन्द्रादिकसुरसेवित ब्रह्मादिकसुरसेवित, 

प्रणमति ते शीर्षम्, ॐ हर हर हर महादेव ॥ ४॥

 विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता, 

किन्नरगानं कुरुते किन्नरगानं कुरुते, सप्तस्वर सहिता ।

 धिनकत थै थै धिनकत मृदङ्गं वादयते, शिव मृदङ्गं वादयते,

 क्वणक्वपललिता वेणुं मधुरं नादयते ।

 ॐ हर हर हर महादेव ॥ ५॥

 कण कण-चरणे रचयति नूपुरमुज्वलितं, शिवनूपुरमुज्वलितं.

 चक्राकारं भ्रमयति चक्राकारं भ्रमयति, कुरुते तां धिकताम् ।

 तां तां लुप-चुप तालं नादयते, शिव तालं नादयते, 

अङ्गुष्ठाङ्गुलिनादं अङ्गुष्ठाङ्गुलिनादं लास्यकतां कुरुते ।

 ॐ हर हर हर महादेव ॥ ६॥

 कर्पुरद्युतिगौरं पञ्चाननसहितम्, शिव पञ्चाननसहितं,

 विनयन शशधरमौले, विनयन विषधरमौले कण्ठयुतम् । 

सुन्दरजटाकलापं पावकयुत फालम्, 

शिव पावकशशिफालं, डमरुत्रिशूलपिनाकं

 डमरुत्रिशूलपिनाकं करधृतनृकपालम् । 

ॐ हर हर हर महादेव ॥ ७॥

 शङ्खननादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते, 

नीराजयते ब्रह्मा, नीराजयते विष्णुर्वेद-ऋचं पठते ।

 इति मृदुचरणसरोजं हृदि कमले धृत्वा, 

शिव हृदि कमले धृत्वा अवलोकयति महेशं, 

शिवलोकयति सुरेशं, ईशं अभिनत्वा । 

ॐ हर हर महादेव ॥ ८॥

 रुण्डै रचयति मालां पन्नगमुपवीतं, शिव पन्नगमुपवीतं,

 वामविभागे गिरिजा, वामविभागे गौरी, रूपं अतिललितम् ।

 सुन्दरसकलशरीरे कृतभस्माभरणं, शिव कृत भस्माभरणम्,

 इति वृषभध्वजरूपं, हर-शिव-शङ्कर-रूपं तापत्रयहरणम् ।

 ॐ हर हर हर महादेव ॥ ९॥ 

ध्यानं आरतिसमये हृदये इति कृत्वा, शिव हृदये इति कृत्वा,

 रामं त्रिजटानाथं, शम्भुं विजटानाथं ईशं अभिनत्वा । 

सङ्गीतमेवं प्रतिदिनपठनं यः कुरुते, शिव पठनं यः कुरुते, 

शिवसायुज्यं गच्छति, हरसायुज्यं गच्छति, भक्त्या यः श‍ृणुते । 

ॐ हर हर हर महादेव ॥ १०॥

 ॐ जय गङ्गाधर हर शिव,

 जय गिरिजाधीश शिव, जय गौरीनाथ ।

 त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश ।

 ॐ हर हर हर महादेव ॥ ११॥

No comments:

Post a Comment