Wednesday, August 12, 2026

अर्धनारीश्वरस्तोत्रम् 

चाम्पेयगौरार्धशरीरकायै

 कर्पूरगौरार्धशरीरकाय ।

धम्मिल्लकायै च जटाधराय 

नमः शिवायै च नमः शिवाय ॥ १॥

कस्तूरिकाकुङ्कुमचर्चितायै

 चितारजःपुञ्जविचर्चिताय ।

कृतस्मरायै विकृतस्मराय 

नमः शिवायै च नमः शिवाय ॥ २॥

झणत्क्वणत्कङ्कणनूपुरायै

 पादाब्जराजत्फणिनूपुराय ।

हेमाङ्गदायै भुजगाङ्गदाय

 नमः शिवायै च नमः शिवाय ॥ ३॥

विशालनीलोत्पललोचनायै 

विकासिपङ्केरुहलोचनाय ।

समेक्षणायै विषमेक्षणाय 

नमः शिवायै च नमः शिवाय ॥ ४॥

मन्दारमालाकलितालकायै

 कपालमालाङ्कितकन्धराय ।

दिव्याम्बरायै च दिगम्बराय

 नमः शिवायै च नमः शिवाय ॥ ५॥

अम्भोधरश्यामलकुन्तलायै 

तडित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय 

नमः शिवायै च नमः शिवाय ॥ ६॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै 

समस्तसंहारकताण्डवाय ।

जगज्जनन्यै जगदेकपित्रे 

नमः शिवायै च नमः शिवाय ॥ ७॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै

 स्फुरन्महापन्नगभूषणाय ।  

शिवान्वितायै च शिवान्विताय

 नमः शिवायै च नमः शिवाय ॥ ८॥

एतत्पठेदष्टकमिष्टदं यो भक्त्या 

स मान्यो भुवि दीर्घजीवी ।

प्राप्नोति सौभाग्यमनन्तकालं 

भूयात्सदा तस्य समस्तसिद्धिः ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥

No comments:

Post a Comment