Friday, August 7, 2026


 श्रीसिद्धिविनायकस्तोत्रम् 


जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।

स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।

यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।

त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥

त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।

देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं श‍ृणु प्रभो ॥ ४॥

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।

विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।

त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।

अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७॥

लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।

हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८॥

नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।

सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥

विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।

दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।

नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥

नमनं शम्भुतनयं नमनं करुणालयम् ।

नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।

नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।

भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।

दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।

पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।

शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।

गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥

पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।

कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।

षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः

गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

      इति श्री सिद्धिविनायक स्तोत्रम् ।

No comments:

Post a Comment