Wednesday, August 12, 2026

 बृहस्पतिस्तोत्रम्

अथ गुरुस्तोत्रम् ।

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।

लोकत्रयगुरुः श्रीमान्सर्वज्ञः सर्वकोविदः ॥ १॥

सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।

अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।

भूर्भुवःसुवरों चैव भर्ता चैव महाबलः ॥ ३॥

पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।

वसता नन्दभवने विष्णुना कीर्तितानि वै ॥ ४॥

यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।

विपरीतोऽपि भगवान्प्रीतो भवति वै गुरुः ॥ ५॥

यश्छृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।

बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६॥

 इति गुरुस्तोत्रं सम्पूर्णम् ।  


No comments:

Post a Comment