Wednesday, August 12, 2026

चन्द्रस्तोत्रम् 

नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे ।

विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥ १॥

त्वमेव सर्वलोकानामाप्यायनकरः सदा ।

क्षीरोद्भवाय देवाय नमः शङ्गरशेखर ॥ २॥

युगानां युगकर्ता त्वं निशानाथो निशाकरः ।

संवत्सराणां मासानामृतूनां तु तथैव च ॥ ३॥

ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः ।

ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥ ४॥

इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः ।

दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥ ५॥

न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ।

अहोरात्रकृत्तं पापं पठनादेव नश्यति ॥ ६॥

द्विजराजो महापुण्यस्तारापतिर्विशेषतः ।

ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥ ७॥

इति चन्द्रस्तोत्रं सम्पूर्णम् ।


No comments:

Post a Comment