Wednesday, August 12, 2026

 शुक्रस्तोत्रम् 

अथ शुक्रस्तोत्रप्रारम्भः ।

श‍ृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् ।

रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् ॥ १॥

येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् ।

तानि शुक्रस्य नामानि कथयामि शुभानि च ॥ २॥

शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् ।

तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः ॥ ३॥

दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः ।

नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥ ४॥

शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः ।

अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥ ५॥

चतुर्विंशतिनामानि अष्टोत्तरशतं यथा ।

देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥ ६॥

य इदं पठति स्तोत्रं भार्गवस्य महात्मनः ।

विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥ ७॥

स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो

   भक्त्या पठेच्च मनुजो नियतः शुचिः सन् ।

प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान्

   राज्यं समस्तधनधान्ययुतां समृद्धिम् ॥ ८॥

  इति शुक्रस्तोत्रं समाप्तम् ।

No comments:

Post a Comment