Wednesday, August 12, 2026

 राहुस्तोत्रम् 

ॐ नमो राहवे ।

नमस्ते दैत्यरूपाय देवारिं प्रणमाम्यहम् ।

नमस्ते सर्वभक्ष्याय घोररूपाय वै नमः ॥ १॥

त्वं ब्रह्मा वरुणो देवस्त्वं विष्णुस्त्वं हरिः शिवः ।

मर्त्यलोके भवान्प्रीतः संसारजनतारकः ॥ २॥

कूटपर्वतदुर्गाणि नगराणि पुराणि च ।

यस्य क्रोधवशाद्भस्मीभवन्ति क्षणमात्रकम् ॥ ३॥

धूम्रवर्णो भवान् राहू रक्ताक्षः पिङ्गलोपमः ।

क्रूरग्रहस्तथा भीमो यमरूपो महाबलः ॥ ४॥

यस्य स्थाने पञ्चमेऽपि षष्ठे चैव तृतीयके ।

दशमैकादशे चैव तस्य श्रेयः करोत्यलम् ॥ ५॥

अन्नं खड्गं च यद्दत्तं राहवे सुफलप्रदम् ।

पृथिव्यां ब्रह्मपीडां च गोपीडां तन्निवारयेत् ॥ ६॥

कृमिकीटपतङ्गेषु चरन्तं सचराचरम् ।

गोदानं भूमिदानं च ह्यन्नं वस्त्रं च दापयेत् ॥ ७॥

सौवर्णरौप्यदानं च कन्यादानं च तत्क्षणात् ।

एतद्दानं च सम्पूर्णं राहुमोक्षकरं नृणाम् ।

अस्य स्तोत्रस्य माहात्म्याद्राहुपीडा विनश्यति ॥ ८॥

रक्ताक्षो धूम्रवर्णाभो विजितारिर्महाबलः ।

अबाहुश्चान्तरिक्षस्थः स राहुः प्रीयतां मम ॥ ९॥

इति राहुस्तोत्रं सम्पूर्णम् ।


No comments:

Post a Comment