Thursday, July 9, 2026

अथ प्रथमोऽध्यायः

हरिः ओम् गणानां त्वा गणपति र्ट हवामहे 

प्रियाणां त्वा प्रिय पति र्ट हवामहे 

निधीनां त्वा निधिपति र्ट हवामहे वसोमम। 

आहमजानि गर्भधमात्वमजासि गर्भधम् ॥१ ॥

गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङक्त्या सह ।

 बृहत्युष्णिहा ककुप्सूचीभिः शम्यन्तु त्त्वा ॥२॥

द्विपदायाश्चतुष्पदास्त्रिपदायाश्चषट्पदाः ।

विच्छन्दायाश्च सच्छन्दाः सूचीभिः शॅम्यन्तु त्वा ॥ ३ ॥

सहस्तोमाः सहच्छन्दस ऽआवृतः सह प्रमा ऋषयः सप्त दैव्याः 

पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥४॥

यज्जाग्रतो दूरमुदैतिदैवं तदुसुप्तस्य तथैवैति । 

दुरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिव - संकल्पमस्तु ॥५ ॥

येन कर्माण्यपसो मनीषिणो यज्ञेकृण्वन्ति विदथेषुधीराः ।

यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिव संकल्पमस्तु ॥६ ॥

यत्प्रज्ञानमुतचेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।

यस्मान्नऋते किंचनकर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु ॥७॥

येनेदं भूतं भुवनं भविष्यत्परिगृहीतमऽ मृतेनसर्वम् ।

येन यज्ञस्तायते सप्तहोता तन्मे मनः शिव संकल्पमस्तु ॥८ ॥

यस्मिन्नृचः सामयजू  यस्मिन्प्रतिष्ठिता रथना भाविवाराः

यस्मिंश्चित्तठं सर्वमोतं प्रजानां तन्मे मनः शिव संकल्पमस्तु ॥९ ॥

सुषारथिरश्वानित्वयन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिनइव ।

हृत्प्रतिष्ठंयदजिरं जविष्ठं तन्मे मनः शिव संकल्पमस्तु ॥१०॥

द्वितीयोऽध्यायः

No comments:

Post a Comment