Wednesday, August 5, 2026

॥ श्री गणेश अथर्वशीर्ष ॥

हरिः ॐ नमस्ते गणपतये ॥

त्वमेव प्रत्यक्षं तत्त्वमसि ।।

 त्वमेव केवलं कर्ताऽसि ॥

 त्वमेव केवलं धर्ताऽसि ॥ 

त्वमेव केवलं हर्ताऽसि ।।

 त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

 त्वं साक्षादात्माऽसि नित्यम् ॥ १॥

 ऋतं वच्मि ॥ सत्यं वच्मि ॥ २॥ 

अव त्वं माम् ॥ अव वक्तारम् ॥

 अव श्रोतारम् ॥ अव दातारम् ॥

 अव धातारम् ॥ अवानूचानमव शिष्यम् ॥

 अव पश्चात्तात् ।। अव पुरस्तात् ॥

 अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ 

अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ 

सर्वतो मां पाहि पाहि समंतात् ॥ ३॥ 

त्वं वाङ्गयस्त्वं चिन्मयः ॥

 त्वमानंदमयस्त्वं ब्रह्ममयः ॥

 त्वं सच्चिदानंदाद्वितीयोऽसि ॥

 त्वं प्रत्यक्षं ब्रह्मासि ।। 

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥

 सर्वं जगदिदं त्वत्तो जायते ॥ 

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

 सर्वं जगदिदं त्वयि लयमेष्यति ।।

 सर्वं जगदिदं त्वयि प्रत्येति ॥ 

त्वं भूमिरापोऽनलोऽनिलो नभः ॥ 

त्वं चत्वारि वाक्पदानि ॥ ५॥

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥
 त्वं देहत्रयातीतः ॥
 त्वं कालत्रयातीतः ॥ 
त्वं मूलाधारस्थितोऽसि नित्यम् ॥ 
त्वं शक्तित्रयात्मकः ॥
 त्वां योगिनो ध्यायंति नित्यम् ॥ 
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं 
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं 
सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥ ६॥
 एतत्तव मनुस्वरूपम् ।। 
गकारः पूर्वरूपम् ॥
 अकारो मध्यमरूपम् ।।
 अनुस्वारश्चान्त्यरूपम् ॥
 बिन्दुरुत्तररूपम् ॥
 नादः संधानम् ॥
 संहितासंधिः ॥
 सैषा गणेशविद्या ॥
 गणकऋषिः ॥
 निचूगायत्रीच्छंदः ॥
 गणपतिर्देवता ॥
 ॐ गं गणपतये नमः ॥ ७॥ 
एकदंताय विद्महे। 
वक्रतुण्डाय धीमहि ।।
 तन्नो दंतिः प्रचोदयात् ॥ ८॥
 एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥ 
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥ 
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
 रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
 भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥ 
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
 एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥
 अनुस्वारः परतरः ॥
 अर्धेन्दुलसितम् ॥
 तारेण ऋद्धम् ॥
नमो व्रातपतये ।
 नमो गणपतये ।
 नमः प्रमथपतये । 
नमस्तेऽस्तु लंबोदरायैकदंताय ।
 विघ्ननाशिने शिवसुताय ।
 श्रीवरदमूर्तये नमो नमः ॥ १०॥

No comments:

Post a Comment