Wednesday, August 5, 2026

श्री सूक्तं  (ऋग्वेद )

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।

 चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।

 यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । 

श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रा

 ज्वलन्तीं तृप्तां तर्पयन्तीम् ।

 पद्म स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं 

श्रियं लोके देवजुष्टामुदाराम् ।

 तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे 

नश्यतां त्वां वृणे ॥ ५॥

आदित्यवर्णे तपसोऽधिजातो
 वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
 तस्य फलानि तपसा नुदन्तु 
मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह । 
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्
 कीर्तिमृद्धिं ददातु मे ॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
 अभूतिमसमृद्धिं च सर्वां निर्णद मे गृहात् ॥ ८॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । 
ईश्वरी सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि । 
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम । 
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
 नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥

आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
 चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥

आर्द्रा यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
 सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
 यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
 श्रियः पञ्चदशर्च च श्रीकामः सततं जपेत् ॥ १६॥

No comments:

Post a Comment