Thursday, August 6, 2026

॥ श्रीराम रक्षास्तोत्रम् ॥



॥ विनियोगः ॥

ॐ अस्य श्री रामरक्षास्तोत्रमन्त्रस्य

 बुधकौशिक ऋषिः, 

श्री सीतारामचन्द्रोदेवता,

 अनुष्टुप् छन्दः, सीताशक्तिः, 

श्रीमद्हनुमान् कीलकम्,

 श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः।

॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।

वामाङ्कारूढसीतामुखकमलमिल्ललोचनं नीरदाभं

नानालङ्कारदीप्तं दधतुरुजटामण्डनं रामचन्द्रम्॥

॥ स्तोत्रम ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।

एकैकमक्षरं पुंसां महापातकनाशनम्॥ १॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥ २॥

सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम्।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्॥ ३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्।

शिरो मे राघवः पातु भालं दशरथात्मजः॥ ४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः॥ ५॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः॥ ६॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित्।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः॥ ७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्॥ ८॥

जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः।

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः॥ ९॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत्॥ १०॥

पातालभूतलव्योमचारिणश्छद्मचारिणः।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः॥ ११॥

रामेति रामभद्रति रामचन्द्रेति वा स्मरन्।

नरो न लिप्यते पापैर् भुक्तिं मुक्तिं च विन्दति॥ १२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः॥ १३॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्॥ १४॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः॥ १५॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः॥ १६॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ १७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ॥ १८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्।

रक्षःकुलविहन्तारौ त्रायेतां नो रघूत्तमौ॥ १९॥

आत्तसज्जधनुषाविषुस्पृशा वक्षयाशुगनिषङ्गसङ्गिनौ।

रक्षणाय मम रामलक्ष्मणावग्रतः 

पथि सदैव गच्छताम्॥ २०॥

आदिमध्यान्तयोर्यस्य स्मरणं सर्वमङ्गलम्।

तेन सत्येन सत्येन सर्वार्थान् लभते नरः॥ २१॥

तथैव नित्यं नियमेन जप्त्वोत्थितः प्रयतः प्रपठेत्सुधीरः।

सोऽभ्येति रामस्य समीपमीशं स चापि भूत्वा परमं प्रयाति॥ २२॥

इति श्रीबुधकौशिकविरचितं 

श्रीरामरक्षास्तोत्रं सम्पूर्णम्।



No comments:

Post a Comment