Wednesday, August 12, 2026

 बुधस्तोत्रम् 

अथ बुधस्तोत्रम् ।

अस्य श्रीबुधस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप्छन्दः ।

बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।

ध्यानम् ।

भुजैश्चतुर्भिर्वरदाभयासिगदं वहन्तं सुमुखं प्रशान्तम् ।

पीतप्रभं चन्द्रसुतं सुरेढ्यं सिम्हे निषण्णं बुधमाश्रयामि ॥


पीताम्बरः पीतवपुः पीतध्वजरथस्थितः ।

पीयूषरश्मितनयः पातु मां सर्वदा बुधः ॥ १॥

सिंहवाहं सिद्धनुतं सौम्यं सौम्यगुणान्वितम् ।

सोमसूनुं सुराराध्यं सर्वदं सौम्यमाश्रये ॥ २॥

बुधं बुद्धिप्रदातारं बाणबाणासनोज्ज्वलम् ।

भद्रप्रदं भीतिहरं भक्तपालनमाश्रये ॥ ३॥

आत्रेयगोत्रसञ्जातमाश्रितार्तिनिवारणम् ।

आदितेयकुलाराध्यमाशुसिद्धिदमाश्रये ॥ ४॥

कलानिधितनूजातं करुणारसवारिधिम् ।

कल्याणदायिनं नित्यं कन्याराश्यधिपं भजे ॥ ५॥

मन्दस्मितमुखाम्भोजं मन्मथायुतसुन्दरम् ।

मिथुनाधीशमनघं मृगाङ्कतनयं भजे ॥ ६॥

चतुर्भुजं चारुरूपं चराचरजगत्प्रभुम् ।

चर्मखड्गधरं वन्दे चन्द्रग्रहतनूभवम् ॥ ७॥

पञ्चास्यवाहनगतं पञ्चपातकनाशनम् ।

पीतगन्धं पीतमाल्यं बुधं बुधनुतं भजे ॥ ८॥

बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।

यः पठेच्छृणूयाद्वापि सर्वाभीष्टमवाप्नुयात् ॥ ९॥

    इति बुधस्तोत्रं सम्पूर्णम् ।


No comments:

Post a Comment